(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.113. अध्यायः 113
Mahabharata - Adi Parva - Chapter Topics
दीर्घतमसो ऋषेरुपाख्यानम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text

भीष्म उवाच। 1-113-0x(683)(5016)
जामदग्न्येन रामेण पितुर्वधममृष्यता।
राजा परशुना पूर्वं हैहयाधिपतिर्हतः॥ 1-113-1(5017)
शतानि दशबाहूनां निकृत्तान्यर्जुनस्य वै।
लोकस्याचरितो धर्मस्तेनाति किल दुश्चरः॥ 1-113-2(5018)
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता।
निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम्॥ 1-113-3(5019)
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा॥ 1-113-4(5020)
एवं निःक्षत्रिये लोके कृते तेन महर्षिणा।
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः॥ 1-113-5(5021)
उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपारगैः।
पाणिग्राहस्य तनय इति वेदेषु निश्चितम्॥ 1-113-6(5022)
धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः।
लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः॥ 1-113-7(5023)
ततः पुनः समुदितं क्षत्रं समभवत्तदा।
इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम्॥ 1-113-8(5024)
अथोचथ्य इति ख्यात आसीद्धीमानृषिः पुरा।
ममता नाम तस्यासीद्भार्या परमसंमता॥ 1-113-9(5025)
उचथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम्।
बृहस्पतिर्बृहत्तेजा ममतामन्वपद्यत॥ 1-113-10(5026)
उवाच ममता तं तु देवरं वदतां वरम्।
अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति॥ 1-113-11(5027)
अयं च मे महाभाग कुक्षावेव बृहस्पते।
औचथ्यो देवमत्रापि षडङ्गं प्रत्यधीयत॥ 1-113-12(5028)
अमोघरेतास्त्वं चापि द्वयोर्नास्त्यत्र संभवः।
तस्मादेवं गते त्वद्य उपारमितुमर्हसि॥ 1-113-13(5029)
वैशम्पायन उवाच। 1-113-14x(684)
एवमुक्तस्तदा सम्यक् बृहस्पतिरुदारधीः।
कामात्मानं तदात्मानं न शशाक नियच्छितुम्॥ 1-113-14(5030)
स बभूव ततः कामी तया सार्धमकामया।
उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत॥ 1-113-15(5031)
भोस्तात मा गमः कामं द्वयोर्नास्तीह संभवः।
अल्पावकाशो भगवन्पूर्वं चाहमिहागतः॥ 1-113-16(5032)
अमोघरेताश्च भवान्न पीडां कर्तुमर्हति।
अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः॥ 1-113-17(5033)
जगाम मैथुनायैव ममतां चारुलोचनाम्।
शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः॥ 1-113-18(5034)
पद्भ्यामारोधयन्मार्गं शुक्रस्य च बृहस्पतेः।
स्थानमप्राप्तमथ तच्छुक्रं प्रतिहतं तदा॥ 1-113-19(5035)
पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः।
तं दृष्ट्वा पतितं शुक्रं शशाप स रुषान्वितः॥ 1-113-20(5036)
उचथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः।
यन्मां त्वमीदृशे काले सर्वभूतेप्सिते सति॥ 1-113-21(5037)
एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि।
स वै दीर्घतमा नाम शापादृषिरजायत॥ 1-113-22(5038)
बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा।
जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स विद्यया॥ 1-113-23(5039)
तरुणीं रुपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम्।
स पुत्राञ्जनयामास गौतमादीन्महायशाः॥ 1-113-24(5040)
ऋषेरुचथ्यस्य तदा सन्तानकुलवृद्धये।
धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः॥ 1-113-25(5041)
गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः।
प्रावर्तत तदा कर्तुं श्रद्धावांस्तमशङ्कया॥ 1-113-26(5042)
ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः।
क्रुद्धा मोहाभिभूतास्ते सर्वे तत्राश्रमौकसः॥ 1-113-27(5043)
अहोऽयं भिन्नमर्यादो नाश्रमे वस्तुमर्हति।
तस्मादेनं वयं सर्वे पापात्मानं त्यजामहे॥ 1-113-28(5044)
इत्यन्योन्यं समाभाष्य ते दीर्घतमसं मुनिम्।
पुत्रलाभाच्च सा पत्नी न तुतोष पतिं तदा॥ 1-113-29(5045)
प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेक्षीति चाब्रवीत्। 1-113-30(5046)
प्रद्वेष्युवाच।
भार्याया भरणाद्भर्ता पालनाच्च पतिः स्मृतः॥ 1-113-30x(685)
अहं त्वद्भरणाशक्ता जात्यन्धं ससुतं तदा।
नित्यकालं श्रमेणार्ता न भरेयं महातपः॥ 1-113-31(5047)
भीष्म उवाच। 1-113-32x(686)
तस्मास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः।
प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा॥ 1-113-32(5048)
नीयतां क्षत्रियकुले धनार्थश्च भविष्यति। 1-113-33(5049)
प्रद्वेष्युवाच।
त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम्॥ 1-113-33x(687)
यथेष्टं कुरु विप्रेन्द्र न भेरयं पुरा यथा। 1-113-34(5050)
दीर्घतमा उवाच।
अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता॥ 1-113-34x(688)
एक एव पतिर्नार्या यावज्जीवं परायणम्।
मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम्॥ 1-113-35(5051)
अभिगम्य परं नारी पतिष्यति न संशयः।
अपतीनां तु नारीणामद्यप्रभृति पातकम्॥ 1-113-36(5052)
यद्यस्ति चेद्धनं सर्वं वृथाभोगा भवन्तु ताः।
अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु वै॥ 1-113-37(5053)
इति तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता।
गङ्गायां नीयतामेष पुत्रा इत्येवमब्रवीत्॥ 1-113-38(5054)
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः।
वद्ध्वोडुपे परिक्षिप्य गङ्गायां समवासृजन्॥ 1-113-39(5055)
कस्मादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते।
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान्॥ 1-113-40(5056)
सोऽनुस्रोतस्तदा विप्रः प्लवमानो यदृच्छया।
जगाम सुबहून्देशानन्धस्तेनोडुपेन ह॥ 1-113-41(5057)
तं तु राजा बलिर्नाम सर्वधर्मविदां वरः।
अपश्यन्मज्जनगतः स्रोतसाऽभ्याशमागतम्॥ 1-113-42(5058)
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः।
ज्ञात्वा चैवं स वव्रेऽथ पुत्रार्थे भरतर्षभ॥ 1-113-43(5059)
`तं पूजयित्वा राजर्षिर्विश्रान्तं मुनिमब्रवीत्।'
सन्तानार्थं महाभाग भार्यासु मम मानद।
पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि॥ 1-113-44(5060)
भीष्म उवाच। 1-113-45x(689)
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः।
तस्मैस राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा॥ 1-113-46(5061)
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह।
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा॥ 1-113-46(5062)
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिस्तदा।
जनयामास धर्मात्मा पुत्रानेकादशैव तु॥ 1-113-47(5063)
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः।
उवाच तमृषिं राजा ममेम इति भारत॥ 1-113-48(5064)
नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत्।
शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः॥ 1-113-49(5065)
अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव।
अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम॥ 1-113-50(5066)
भीष्म उवाच। 1-113-51x(690)
ततः प्रसादयामास पुनस्तमृषिसत्तमम्।
बलिः सुदेष्णां स्वां भार्यां तस्मै स प्राहिणोत्पुनः॥ 1-113-51(5067)
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत्।
भविष्यन्ति कुमारास्ते तेजसाऽऽदित्यवर्चसः॥ 1-113-52(5068)
अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः।
तेषां देशाः समाख्याताः स्वनामकथिता भुवि॥ 1-113-53(5069)
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः।
कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः॥ 1-113-54(5070)
पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः।
एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः॥ 1-113-55(5071)
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि।
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः।
एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम्॥ ॥ 1-113-56(5072)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयोदशाधिकशततमोऽध्यायः॥ 113 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-113-10 अन्वपद्यत उपगतवान्॥ 1-113-11 आरम्यतामुपरम्यताम्॥ 1-113-14 आत्मानं चित्तम्। नियच्छितुं नियन्तुम्॥ 1-113-16 कामं मैथुनं मा गमः॥ 1-113-20 तं शशापेति संबन्धः॥ 1-113-22 दीर्घं तमः अन्धत्वम्॥ 1-113-25 सम्यक् तानं विस्तारो यस्य तस्य कुलस्य वृद्धये विस्तीर्णस्यापि वृद्धये इत्यर्थः॥ 1-113-26 गोधर्मं प्रकाशमैथुनम्। सौरभेयात् कामधेनुपुत्रादधीत्याधिगम्य॥ 1-113-27 मोहाभिभूतत्वमपापे पापदर्शित्वात्॥ 1-113-29 समाभा य क्रुद्धा इति पूर्वेणान्वयः॥ 1-113-30 द्वेक्षि द्वेषं करोषि। पतिः पालनादुपसर्गेभ्यः। भरणादन्नादिना भर्ता च॥ 1-113-31 अहं तु प्रत्युत त्वद्भरणाशक्ता सती न भरेयम्। तदा तदेव। लुप्तोपमा। पूर्ववदित्यर्थः॥ 1-113-33 धनमर्थश्चोपभोगादिः॥ 1-113-34 न भरेयं यथा पुरा भर्त्रन्तरं करिष्यामीत्याशयः॥ 1-113-42 मज्जनगतः स्नानार्थं गतः। स्रोतसा प्रवाहेण। अभ्याशं समीपम्॥ 1-113-46 धात्रेयिकां दासीम्॥ 1-113-52 अङ्गेषु स्पृष्ट्वा स्वरूपज्ञानार्थमिति भावः। संधिरार्षः॥ 1-113-56 यथेप्सितं ब्राह्मणेभ्यो वंशवृद्धिमित्यर्थः॥ त्रयोदशाधिकशततमोऽध्यायः॥ 113 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.